हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Veda Vyasa Ashtottara Shatanama Stotram 2 – श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम्
ध्यानम् –
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ १ ॥
व्यासं वसिष्ठनप्तारं शाक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २ ॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः ।
सर्वान् लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु ॥ ३ ॥
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अभाललोचनः शम्भुर्भगवान् बादरायणः ॥ ४ ॥
अथ स्तोत्रम् –
नारायणकुलोद्भूतो नारायणपरो वरः ।
नारायणावतारश्च नारायणवशंवदः ॥ १ ॥
स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः ।
शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥ २ ॥
द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः ।
स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥ ३ ॥
महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः ।
अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥ ४ ॥
शुकतातः पिङ्गजटः प्रांशुर्दण्डी मृगाजिनः ।
वश्यवाग्ज्ञानदाता च शङ्करायुः प्रदः शुचिः ॥ ५ ॥
मातृवाक्यकरो धर्मी कर्मी तत्वार्थदर्शकः ।
सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥ ६ ॥
तथा धर्मोपदेष्टा च मृतदर्शनपण्डितः ।
विचक्षणः प्रहृष्टात्मा पूर्वपूज्यः प्रभुर्मुनिः ॥ ७ ॥
वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः ।
ब्राह्मकृत्पाद्मकृद्धीरो विष्णुकृच्छिवकृत्तथा ॥ ८ ॥
श्रीभागवतकर्ता च भविष्यरचनादरः ।
नारदाख्यस्यकर्ता च मार्कण्डेयकरोऽग्निकृत् ॥ ९ ॥
ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् ।
स्कान्दकर्ता वामनकृत्कूर्मकर्ता च मत्स्यकृत् ॥ १० ॥
गरुडाख्यस्यकर्ता च ब्रह्माण्डाख्यपुराणकृत् ।
कर्ता चोपपुराणानां पुराणः पुरुषोत्तमः ॥ ११ ॥
काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः ।
सर्वज्ञः सर्वसिद्धिश्च सर्वाशास्त्रप्रवर्तकः ॥ १२ ॥
सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः ।
विशुद्धः शुद्धिकृद्दक्षो विष्णुभक्तः शिवार्चकः ॥ १३ ॥
देवीभक्तः स्कन्दरुचिर्गाणेशकृच्च योगवित् ।
पौलाचार्य ऋचः कर्ता शाकल्यार्यास्तथैव च ॥ १४ ॥
यजुः कर्ता च जैमिन्याचार्याश्च सामकारकः ।
सुमन्त्वाचार्यवर्यश्च तथैवाथर्वकारकः ॥ १५ ॥
रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ।
व्यासकाशीरतो विश्वपूज्यो विश्वेशपूजकः ॥
शान्ताः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥ १६ ॥
इति श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.